Shri Lakshmi Narasimha Pancharatnam

Поделиться
HTML-код
  • Опубликовано: 16 окт 2024
  • Composer: Shri Adi Shankaracharya
    A powerful five verse shloka in praise of Lord Shri Lakshmi Narasimha.
    Time Stamps
    00:00 Recital
    03:28 Introduction
    04:46 Shloka 1
    08:25 Shloka 2
    09:48 Shloka 3
    11:52 Shloka 4
    13:42 Shloka 5
    श्रीलक्ष्मीनरसिंहपञ्चरत्नम्
    त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततम्
    प्रतिबिम्बालङ्कृतिधृतिकुशलो बिम्बालङ्कृतिमातनुते ।
    चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायाम्
    भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ १ ॥
    शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चेत्
    दु:खमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।
    चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायाम्
    भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ २ ॥
    आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः
    गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन् ।
    चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायाम्
    भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३ ॥
    स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे
    गन्धफलीसदृशा ननु तेऽमी भोगानन्तरदुःखकृतः स्युः ।
    चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायाम्
    भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४ ॥
    तव हितमेकं वचनं वक्ष्ये श्रुणु सुखकामो यदि सततम्
    स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति ।
    चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायाम्
    भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५ ॥
    ....
    त्वत्-प्रभु-जीव-प्रियम् इच्छसि चेत् नर-हरि-पूजां कुरु सततम्
    प्रति-बिम्ब-अलङ्कृति-धृति-कुशल: बिम्ब-अलङ्कृतिम् आतनुते ।
    चेत:-भृङ्ग भ्रमसि वृथा भव-मरु-भूमौ वि-रसायाम्
    भज भज लक्ष्मी-नर-सिंह-अनघ-पद-सरसि-ज-मकरन्दम् ॥ १ ॥
    शुक्तौ रजत-प्रतिभा जाता कटक-आदि-अर्थ-समर्था चेत्
    दु:खमयी ते संसृति: एषा निर्वृति-दाने निपुणा स्यात् ।
    चेत:-भृङ्ग भ्रमसि वृथा भव-मरु-भूमौ वि-रसायाम्
    भज भज लक्ष्मी-नर-सिंह-अनघ-पद-सरसि-ज-मकरन्दम् ॥ २॥
    आकृति-साम्यात् शाल्मलि-कुसुमे स्थल-नलिनत्व-भ्रमम् अकरोः
    गन्ध-रसौ इह किमु विद्येते विफलं भ्राम्यसि भृश-विरसे अस्मिन् ।
    चेत:-भृङ्ग भ्रमसि वृथा भव-मरु-भूमौ वि-रसायाम्
    भज भज लक्ष्मी-नर-सिंह-अनघ-पद-सरसि-ज-मकरन्दम् ॥ ३॥
    स्रक्-चन्दन-वनिता-आदीन् विषयान् सुखदान् मत्वा तत्र विहरसे
    गन्ध-फली-सदृशा ननु ते अमी भोग-अनन्तर-दुःख-कृतः स्युः ।
    चेत:-भृङ्ग भ्रमसि वृथा भव-मरु-भूमौ वि-रसायाम्
    भज भज लक्ष्मी-नर-सिंह-अनघ-पद-सरसि-ज-मकरन्दम् ॥ ४॥
    तव हितम् एकं वचनं वक्ष्ये श्रुणु सुख-काम: यदि सततम्
    स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वत् इति ।
    चेत:-भृङ्ग भ्रमसि वृथा भव-मरु-भूमौ वि-रसायाम्
    भज भज लक्ष्मी-नर-सिंह-अनघ-पद-सरसि-ज-मकरन्दम् ॥ ५ ॥
    शुभम्

Комментарии •