Sri Bala Mukuntashtakam Bombay Sisters C Saroja C Lalitha

Поделиться
HTML-код
  • Опубликовано: 16 окт 2024
  • बालमुकुन्दाष्टकम्
    करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
    वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ १॥
    संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् ।
    सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ॥ २॥
    इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् ।
    सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ॥ ३॥
    लम्बालकं लम्बितहारयष्टिं श‍ृङ्गारलीलाङ्कितदन्तपङ्क्तिम् ।
    बिंबाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥ ४॥
    शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् ।
    भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि ॥ ५॥
    कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गे नटनप्रियन्तम् ।
    तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि ॥ ६॥
    उलूखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुन भङ्गलीलम् ।
    उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥ ७॥
    आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् ।
    सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ॥ ८॥
    ॥ इति श्री बिल्वमङ्गलठाकुरविरचितम् बालमुकुन्दाष्टकम् सम्पूर्णम् ॥
    श्रीकृष्णकरणामृतान्तर्गतम्
    करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
    वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ २.५७॥
    आकुञ्चितं जानु करं च वामं न्यस्य क्षितौ दक्षिणहस्तपद्मे ।
    आलोकयन्तं नवनीतखण्डं बालं मुकुन्दं मनसा स्मरामि ॥ ३.९२॥

Комментарии • 1