काव्यलक्षणम् by SUGYAN KUMAR MAHANTY
HTML-код
- Опубликовано: 3 фев 2025
- अस्मन्मते काव्यलक्षणम्
अन्यतमस्य सद्भावे रसालङ्कारवस्तुषु ।
ध्वनेः काव्यात्मभूतस्य काव्यत्वं प्रतिपद्यते ॥
शब्दार्थौ सहितौ कव्ये गुणाभिव्यञ्जकौ मतौ ।
हतोद्देशस्य दोषस्य राहित्यं मानितं सदा ॥
सालङ्कारौ रसाभावे सरसेऽप्यनलङ्कृती ।
अङ्गभूतास्त्वलङ्कारा मन्तव्या यत्र कुत्रचित् ॥
(सुज्ञानकुमारमाहान्तिः ,काव्यतत्त्वालोकः, ३.५-७)