पाश्चात्त्यकाव्यशास्त्रेषु काव्यप्रयोजनम्

Поделиться
HTML-код
  • Опубликовано: 3 фев 2025
  • यथा भारतीयकाव्यशास्त्रिण: काव्यप्रयोजनविषये विविधमतान्युपन्यस्यन्ति तथैव पाश्चात्त्यकाव्यशास्त्रिणोऽपि। तत्रोभयदृष्ट्या का समता का च विषमतेति पर्यालोचनाया: पूर्वं पाश्चात्त्यदृष्ट्या किं तावत् काव्यस्य प्रयोजनं तद् ज्ञातव्यम्।
    पाश्चात्त्यकाव्यशास्त्रे आचार्यप्लेटोमहोदय:( Plato) लोकमङ्गलमेव काव्यस्य मुख्यं प्रयोजनं मनुते। स: स्वगुरो: सक्रेटिस्महोदयस्य प्रेरणयाऽकथयद् यत्- कवि: तादृशं काव्यं कर्तुं नार्हति यद्धि समाजस्य मर्यादाया विरुद्धमाचरति। प्लेटोमहोदयस्य मतानुसारं कलाया उदात्तताऽऽनन्दस्य परिमाणेन निर्णेतुं न शक्यते। तन्मतेन शुद्ध: परमानन्द: काव्यस्य पञ्चमं प्रयोजनम्।
    सुज्ञानकुमारमाहान्तिः

Комментарии •