Banasur Shiva Stotra Fast 11 Times | बाणासुर कृत शिव स्तोत्र Fast 11 Times | Shiv Storam Banasur

Поделиться
HTML-код
  • Опубликовано: 11 сен 2024
  • Banasur Shiva Stotra Fast 11 Times | बाणासुर कृत शिव स्तोत्र Fast 11 Times | Shiv Storam Banasur
    || बाणासुर कृत शिव स्तोत्र ||
    वन्दे सुराणां सारं च सुरेशं नीललोहितम् |
    योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् || १ ||
    ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् |
    तपसां फलदातारं दातारं सर्वसम्पदाम् || २ ||
    तपोरूपं तपोबीजं तपोधनधनं वरम् |
    वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः || ३ ||
    कारणं भुक्तिमुक्तिनां नरकार्णवतारणम् |
    आशुतोषं प्रसन्नास्यं करुणामयसागरम् || ४ ||
    हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभम् |
    ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् || ५ ||
    विषयाणां विभेदेन बिभ्रन्तं (बिभ्रतं) बहुरूपकम् |
    जलरूपं अग्निरूपं आकाशरूप मीश्वरम् || ६ ||
    वायुरूपं चन्द्ररूपं सूर्यरुपं महत्प्रभुम् |
    आत्मनः स्वपदं दातुं समर्थमवलीलया || ७ ||
    भक्तजीवनभीशं च भक्तानुग्रहकातरम् |
    वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् || ८ ||
    अपरिच्छिन्नमीशानमहो वाङ्मनसोः परम् |
    व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् |
    त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम् || ९ ||
    इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः |
    प्रणमेच्छङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः || १० ||
    || फलश्रुतिः ||
    इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने
    कथितं च महास्तोत्रं शूलीनः परमाद्भुतम् || ११ ||
    इदं स्तोत्रं महापुण्यं पठेद्भक्त्या च यो नरः |
    स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् || १२ ||
    अपुत्रो लभते पुत्रं वर्षमेकं श्रुणोति यः |
    संयतश्च हविष्याशी प्रणम्यशङ्करं गुरुम् || १३ ||
    गलत्कुष्ठी महाशुली वर्षमेकं शृणोति यः |
    अवश्यं मुच्यते रोगाद्व्या सवाक्यमिति श्रुतम् || १४ ||
    कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् |
    स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनाद् ध्रुवम् || १५ ||
    भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं शृणोति यः |
    मासं श्रुत्वा संयतश्च लभेद्भ्रष्टधनो धनम् || १६ ||
    यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत् |
    निश्चितं मुच्यते रोगाच्छङ्करस्य प्रसादतः || १७ ||
    यः श्रुणोति सदा भक्त्या स्तवराजमिमं द्विज |
    तस्यासाध्यमं त्रिभुवने नास्ति किंचिच्च शौनक || १८ ||
    कदाचिद्बन्धुविच्छेदो न भवेत्तस्य भारते |
    अचलं परमैश्वर्य्यं लभते नात्र संशयः || १९ ||
    सुसंयतोऽतिभक्त्या च मासमेकं शृणोति यः |
    अभार्य्यो लभते भार्य्यां सुविनितां सतीं वराम् || २० ||
    महामूर्खश्चदुर्मेधो मासमेकं शृणोति यः |
    बुद्धिं विद्यां च लभते गुरुपदेशमात्रतः || २१ ||
    कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः |
    ध्रुवं वित्तं भवेत्तस्य शङ्करस्य प्रसादतः || २२ ||
    इह लोके सुखंभुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् |
    नानाप्रकारधर्मं च यात्यन्ते शङ्करालयम् || २३ ||
    पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् |
    यः शृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् || २४ ||
    || शिव स्तोत्रम सम्पूर्णम ||
    Banasur Shiva Stotra Fast 11 Times | बाणासुर कृत शिव स्तोत्र Fast 11 Times | Shiv Storam Banasur

Комментарии •