पाश्चात्त्यकाव्यशास्त्रे काव्यहेतुः
HTML-код
- Опубликовано: 3 фев 2025
- यथा प्राच्ये काव्यस्य हेतुविषये विचारोऽभूत् तथा पाश्चात्त्येऽपि तद्विषये गम्भीरतया विचारो जात:। काव्यहेतुविषये विवेचनेनेदं स्पष्टं प्रतीयते यद् भारतीया: पाश्चात्त्याश्च विद्वांस: प्राय: समानमेव मतं प्रतिपादयन्ति। यथा प्राच्या: काव्यशास्त्रिण: शंक्ति, निपुणताम्, अभ्यासञ्च काव्यस्य हेतुत्वेन साधयन्ति, तथैव पाश्चात्त्या अपि विद्वांस इति कदाचिदाश्चर्यमनुभूयते यत् कथं विनैव पारस्परिकप्रभावेणोभयत्र समाना विचारधारा प्रचलन्ती आसीत्? काममाधुनिका विद्वांस: परस्परं प्रभाविता भवन्तु, परं प्लेटो-अरस्तु-होरेस्प्रमुखा: पाश्चात्त्याचार्या भामह-दण्डि-वामनप्रमुखा: प्राच्याचार्या: तदानीं पारस्परिकसंबन्धस्य तथाभावेऽपि कथं समानं विचारं प्रकटितवन्त आसन्निति निश्चयेनाश्चर्यमुत्पादयति मनसि।
प्रस्तोता
सुज्ञानकुमारमाहान्तिः
केन्द्रीयसंस्कृतविश्वविद्यालयः