"मृतसञ्जिवन कवचम् "|| राेग साेक भय नास गरिदिने र सुरक्षा दिने दुर्लभ भाेलेनाथकाे कवच Pt.Kuber Subedi

Поделиться
HTML-код
  • Опубликовано: 11 сен 2024
  • #Kubersubedi_Dharmadarshan_मृतसञ्जिवनकवच
    "मृतसञ्जीवन कवचम्"
    Mrutasanjeevana Kavacham
    एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम ॥
    मृतसञ्जीवनं नाम्ना कवचं प्रजपेत्सदा ॥१॥
    सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम ॥
    महादेवस्य कवचं मृतसञ्जीवनाभिधम ॥२॥
    समाहितमना भूत्वा श्रृणुष्व कवचं शुभम ॥
    श्रुत्वैतद्दिव्यकवचं रहस्यं कुरु सर्वदा ॥३॥
    जराभयकरो यज्वा सर्वदेवनिषेवितः ॥
    मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥४॥
    दधानः शक्तिमभयां त्रिमुखः षड्भुजः प्रभुः ॥
    सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥५॥
    अष्टादशभुजोपेतो दण्डाभयकरो विभुः ॥
    यमरूपी महादेवो दक्षिणस्यां सदाऽवतु ॥६॥
    खड्गाभयकरो धीरो रक्षोगणनिषेवितः ॥
    रक्षोरूपी महेशो मां नैरृत्यां सर्वदाऽवतु ॥७॥
    पाशाभयभुजः सर्वरत्नाकरनिषेवितः ॥
    वरुणात्मा महादेवः पश्चिमे मां सदाऽवतु ॥८॥
    गदाभयकरः प्राणनायकः सर्वदागतिः ॥
    वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥९॥
    रशङ्खाभयकरस्थो मां नायकः परमेश्वरः ॥
    सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥१०॥
    शूलाभयकरः सर्वविद्यानामधिनायकः ॥
    ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥
    ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽधः सदाऽवतु ॥
    शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥१२॥
    भ्रुमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु ॥
    भ्रुयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥१३॥
    नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ॥
    जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥१४॥
    मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः ॥
    पिनाकी मत्करौ पातु त्रिशूली हृदयं मम ॥१५॥
    पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ॥
    नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥१६॥
    कटिद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः ॥
    गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥
    जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका ॥
    पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥१८॥
    गिरीशः पातु मे भार्यां भवः पातु सुतान्मम ॥
    मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥१९॥
    सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ॥
    एतत्ते कवचं पुण्यं देवतानां च दुर्लभम ॥२०॥
    मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम ॥
    सहस्रावर्तनं चास्य पुरश्चरणमीरितम ॥२१॥
    यः पठेच्छृणुयान्नित्यं श्रावयेत्सुसमाहितः ॥
    स कालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥२२॥
    हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ॥
    आधयो व्याधयस्तस्य न भवन्ति कदाचन ॥२३॥
    कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ॥
    अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥२४॥
    युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम ॥
    युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥२५॥
    न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ॥
    विजयं लभते देवयुद्धमध्येऽपि सर्वदा ॥२६॥
    प्रातरुत्थाय सततं यः पठेत्कवचं शुभम ॥
    अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥२७॥
    सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ॥
    अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥२८॥
    विचरत्यखिलांल्लोकान्प्राप्य भोगांश्च दुर्लभान ॥
    तस्मादिदं महागोप्यं कवचं समुदाहृतम ॥२९॥
    मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम ॥३०॥
    इति श्रीवसिष्ठप्रणीतं मृतसञ्जीवनस्तोत्रं सम्पूर्णम
    "श्री बिष्णुसहस्त्रनाम"अपार कृपा र सबै कामनाकाे लागि • बिष्णुसहस्त्रनाम् स्ता...
    "गजेन्द्र माेक्ष स्ताेत्र" संकट दुस्वप्न वाट सान्तीकाे लागि
    • "गजेन्द्र माेक्ष" नराम...
    "नारायण कवच" यात्रा सुरक्षा दुर्घटना रक्षाकाे लागी
    • "नारायण" कवच || दुर्घट...
    संकट माेचन हनुमाष्टक " हनुमान स्तुति"
    • संकट माेचन हनुमानष्टक ...
    कनकधारा स्ताेत्र: "लक्ष्मी स्तुती" प
    • लक्ष्मी काे "कनकधारा" ...
    नवग्रहका वैदिक र तान्त्री मन्त्र हरु "नवग्र स्तुति"
    • नव ग्रहकाे प्रभाव साली...
    शनि ग्रह शान्ती 108 मन्त्र "शनी स्तुति
    • शनि ग्रह 108 मन्त्र कु...
    Facebook- / @dharmadarshan8528
    Twitter- / kubersubedi7
    Instagram- / kubersubedi
    पुजनिय गुरुदेवका अरु च्यानलकाे लागि तल लिंङ्कमा
    Kuber subedi RUclips channel
    / @kubersubedi1395
    Mantra Song RUclips Channel / @dharmadarshanbhajan99
    Dharma Darshan RUclips channel
    / @dharmadarshan8528

Комментарии • 1,6 тыс.